Srimad-Bhagavad-Gita Chapter-2 -Sekhar Thu Mar 29 2012 03:06:52 GMT-0700 (PDT)

posted Mar 29, 2012, 3:06 AM by A Billion Stories

|| द्वितीयोध्यायः ||
सञ्जय उवाच |

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ||
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||१||

श्री भगवानुवाच |
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ||
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२||

क्लैब्यं मास्म गमः पार्थ नैतत्वय्युपपद्यते ||
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||३||

अर्जुन उवाच |
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ||
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||४||

गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ||
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ||५||

न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ||
यानेव हत्वा न जिजीविषामस्तेवस्थिताः
प्रमुखे धार्तराष्ट्राः ||६||

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः ||
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||७||

न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ||
अवाप्य भूमावसपत्नमृध्दं
राज्यं सुराणामपि चाधिपत्यम् ||८||

सञ्जय उवाच |
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ||
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||९||

तमुवाच हृषीकेशः प्रहसन्निव भारत ||
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||१०||

श्री भगवानुवाच |
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ||
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||११||

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ||
न चैव न भविष्यामः सर्वे वयमतः परम् ||१२||

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ||
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||१३||

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ||
अगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||१४||

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ||
समुदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||१५||

नासतो विद्यते भावो नाभावो विद्यते सतः ||
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ||१६||

अविनाशि तु तद्विध्दि येन सर्वमिदं ततम् ||
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||१७||

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ||
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||१८||

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ||
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||१९||

न जायते म्रियते वा कदाचिन्नायं
भूत्वा भविता वा न भूयः ||
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ||२०||

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ||
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२१||

वासांसि जीर्णानि यथा विहाय
नवानि गृह्नाति नरोपराणि ||
तथा शरीराणि विहाय जीर्णान्यन्यानि
संयाति नवानि देही |२२||

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ||
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ||२३||

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ||
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२४||

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ||
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||२५||

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ||
तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ||२६||

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२७||

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ||
अव्यक्तनिधनान्येव तत्र का परिदेवना ||२८||

आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ||
आश्चर्यवच्चैनमन्यः श्र्णोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ||२९||

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ||
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||३०||

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ||
धर्म्याद्धि युध्दाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||३१||

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |
सुखिनः क्षत्रियाः पार्थ लभन्ते युध्दमीदृशम् ||३२||

अथ चेत्तवमिमं धर्म्यं संग्रामं न करिष्यसि ||
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||३३||

अकीर्तिञ्चापि भूतानि कथयिष्यन्ति तेव्ययाम् ||
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ||३४||

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ||
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||३५||

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ||
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||३६||

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ||
तस्मादुत्तिष्ठ कौन्तेय युध्दाय कृतनिश्चयः ||३७||

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ||
ततो युध्दाय युज्यस्व नैवं पापमवाप्स्यसि ||३८||

एषा तेभिहिता सांख्ये बुध्दिर्योगे त्विमां श्रुणु ||
बुध्दया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||३९||

नेहाभित्रुमनाशोस्ति प्रत्यवायो न विद्यते ||
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||४०||

व्यवसायात्मिका बुध्दिरेकेह कुरुनन्दन ||
बहुशाखा ह्यनन्ताश्च बुध्दयोव्यवसायिनाम् ||४१||

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ||
वेदवादरताः पार्थ नान्यदस्तीतिवादिनः ||४२||

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ||
त्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||४३||

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ||
व्यवसायात्मिका बुध्दिः समाधौ न विधीयते ||४४||

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ||
निर्द्वन्दो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ||४५||

यावानर्थ उदपाने सर्वतः संप्लुतोदके ||
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||४६||

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ||
मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्व कर्मणि ||४७||

योगस्थः कुरु कर्माणि सङ्ग त्यक्त्वा धनञ्जय ||
सिध्द्यसिध्द्योः समो भूत्वा समत्वं योग उच्यते ||४८||

दूरेण ह्यवरं कर्म बुध्दियोगाध्दनञ्जय ||
बुध्दौ शरणमन्विच्छ कृपणाः फलहेतवः ||४९||

बुध्दियुक्तो जहातीह उभे सुकृतदुष्कृते ||
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ||५०||

कर्मजं बुध्दियुक्ता हि फलं मनीषिणः ||
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||५१||

यदा ते मोहकलिलं बुध्दिर्व्यतितरिष्यति ||
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||५२||

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ||
समाधावचला बुध्दिस्तदा योगमवाप्स्यसि ||५३||



अर्जुन उवाच |
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ||
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ||५४||


श्रीभगवानुवाच |
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ||
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ||५५||

दुःखेष्वनुद्विग्न मनाः सुखेषु विगतस्पृहः ||
वीतरागभयत्रोधः स्थितधीर्मुनिरुच्यते ||५६||

यः सर्वत्रानभिस्नेहस्तत्त्प्राप्य शुभाशुभम् ||
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||५७||

यदा संहरते चायं कूर्मोङ्गानीव सर्वशः ||
इंद्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||५८||

विषया विनिवर्तन्ते निराहारस्य देहिनः ||
रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते ||५९||

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ||
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||६०||

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ||
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||६१||

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ||
साङ्गात् संजायते कामः कामात् त्रोधोभिजायते ||६२||

त्रोधाद्दवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ||
स्मृतिभ्रंशाद्बुध्दिनाशो बुध्दिनशात्प्रणश्यति ||६३||

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ||
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||६४||
प्रसादे सर्वदुःखानां हानिरस्योपजायते |
प्रसन्नचेतसो ह्याशु बुध्दिः पर्यवतिष्ठते ||६५||

नास्ति बुध्दिरयुक्तस्य न चायुक्थ्स्य भावना ||
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||६६||

इन्द्रियाणां हि चरतां यन्मनोनुविधीयते ||
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||६७||
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ||
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||६८||
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ||
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||६९||

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशान्ति यद्वत् ||
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ||७०||

विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः ||
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||७१||

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ||
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ||७२||

इति सांख्ययोगो नाम द्वितीयोध्यायः ||२||

Submitted by: Sekhar
Submitted on: Fri Dec 09 2011 20:48:09 GMT-0800 (PST)
Category: Ancient Wisdom
Language: Sanskrit
Copyright: Copy Free
Submit your own work at http://www.abillionstories.com
Read submissions at http://abilionstories.wordpress.com
Submit a poem, quote, proverb, story, mantra, folklore in your own language at http://www.abillionstories.com/submit
Comments