Srimad-Bhagavad-Gita Chapter-1 -Sekhar

posted Jan 14, 2012, 3:12 AM by A Billion Stories   [ updated Jan 14, 2012, 9:34 PM ]
श्रीमद - भगवद - गीता 
|| प्रथमोध्यायः||

धृतराष्ट्र उवाच |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ||
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ||१||

संजय उवाच |
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ||
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ||२||

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ||
व्यूढ़ां द्रुपदपुत्रेण तव शिष्येण धीमता ||३||

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ||
युयुधानो विराटश्च द्रुपदश्च महारथः ||४||

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ||
पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः || ५||

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ||
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||६||

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ||
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ||७||

भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः ||
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ||८||

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ||
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||९||

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ||
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१०||

अयनेषु च सर्वेषु यथाभागमवस्थिताः ||
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||११||

तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः ||
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१२||

ततः शङ्खाश्च भेर्यश्च पाणवानकगोमुखाः ||
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१३|

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ||
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१४||

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ||
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१५||

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ||
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१६||

काश्यश्च परमेष्वासः शिखण्डी च महारथः ||
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१७||

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ||
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक् पृथक् ||१८||

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ||
नभश्च पृथिवीञ्चैव तुमुलोभ्यनुनादयन् ||१९||

अथ व्यवस्थितान् द्रष्ट्वा धार्तराष्ट्रान् कपिध्वजः ||
प्रवृते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ||
हृषीकेशं तदा वाक्यमिदमाह महीपते ||२०||

अर्जुन उवाच |
सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत ||२१||

यावदेतान्निरीक्षेऽहं योध्दुकामानवस्थितान् ||
कौर्मया सह योध्दव्यमस्मिन्रणसमुद्यमे ||२२||

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ||
धार्तराष्ट्रस्य दुर्बुध्देर्युध्दे प्रियचिकीर्षवः ||२३||

संजय उवाच |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ||
सेनयोरुभयोर्मध्ये स्तापयित्वा रथोत्तमम् ||२४||


भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम ||
उवाच पार्थ पश्यैतान्समवेतान् कुरूनिति ||२५||

तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ||
आचार्यान् मातुलान् भ्रात्र्र्न पुत्रान् पौत्रान् सखींस्तथा ||
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरापि ||२६||

तान् समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ||२७||

अर्जुन उवाच |
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ||२८||

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||
गाण्डीवं स्त्रंसते हस्तात्वक् चैव परिदह्यते ||२९||

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||
निमित्तानि च पश्यामि विपरीतानि केशव ||३०||

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||
न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च ||३१||

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||
येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च ||३२||

त इमेऽवस्थिता युध्दे प्राणांस्त्यक्त्वा धनानि च ||
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ||३३||

मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ||३४||

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ||
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||३५||

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ||
पापमेवाश्रयेदस्मान्हत्वैतानात तायिनः ||३६||

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ||
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||३७||

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ||
कुलक्षयकुतं दोषं मित्रद्रोहे च पातकम् ||३८||

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ||
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||३९||

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ||
धर्मे नष्टे कुलं कुत्स्नमधर्मोऽभिभवत्युत ||४०||

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ||
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||४१||

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ||
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||४२||

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ||
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||४३||

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ||
नरके नियतं वासो भवतीत्यनुशुश्रुम ||४४||

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ||
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः||४५||

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ||
धार्तराष्ट्रा राणे हन्युस्तन्मे क्षेमतरं भवेत् ||४६||

सञ्जय उवाच |
एवामुक्तवाऽर्जुनः संख्ये रथोपस्थ उपाविशत् ||
विसृज्य सशरं चापं शोकसंविग्नमानसः ||४७||


इति अर्जुन विषादयोगो नाम प्रथमोध्यायः ||१||

Submitted by: Sekhar
Submitted on: Thu Dec 08 2011 01:40:27 GMT-0800 (PST)
Category: Ancient Wisdom
Language: Sanskrit
Copyright: Copy Free
Submit your own work at http://www.abillionstories.com
Read submissions at http://abilionstories.wordpress.com
Submit a poem, quote, proverb, story, mantra, folklore in your own language at http://www.abillionstories.com/submit
Dhritrashtra-Sanjaya Gita-Chapter-1

Bhagwad Gita - Chapter-1