Language Support > संस्कृत/Sanskrit >
Sanskrit Poems
हृदये चित्रम् । -meheralok
हृदये चित्रं ते आलिखितम् , आयासि द्रष्टुं न वा ? मन्येऽहं पर्याप्तनिमित्तमिदं, त्वामानेतुं न वा ! पुरा यदा त्वां दृष्टवानहं चित्तं मे प्रहृष्टम् । त्वद्हृदयानुगतभावदर्शिस्मितं मुखे तव दृष्टम् । किं क्षणमेकं यावत्पुनश्च शक्यतेऽनुभवितुं न वा ॥१॥ व्याकुलितं मे जातं हृदयं रोचते न किञ्चिन्मे । त्वद्विरहदुःखं न सह्यमाशु आयाहि प्रियतमे । किं प्रेरयते गीतमिदं मे त्वां मा मिलितुं न वा ॥२॥ ~मेहेरालोक~ Photo by: Submitted by: meheralok Submitted on: Thu Dec 15 2016 11:50:58 GMT+0530 (IST) Category: Original Language: संस्कृत/Sanskrit - Read submissions at http://abillionstories.wordpress.com - Submit a poem, quote, proverb, story, mantra, folklore, article, painting, cartoon, drawing, article in your own language at http://www.abillionstories.com/submit |
असतो मा सद्गमय -Sahana Harekrishna
Photo by: - Submitted by: Sahana Harekrishna Submitted on: Wed Oct 23 2013 22:11:30 GMT+0530 (IST) Category: Ancient Wisdom Language: संस्कृत/Sanskrit Copyright: Copy Free - Read submissions at http://abillionstories.wordpress.com - Submit a poem, quote, proverb, story, mantra, folklore, article, painting, cartoon, drawing, article in your own language at http://www.abillionstories.com/submit |
मधुराष्टकम् -श्री वल्लभाचार्य Fri Nov 09 2012 18:10:49 GMT-0800 (PST)
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥२॥ वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥३॥ गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् । रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥४॥ करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् । वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥५॥ गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा । सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥६॥ गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् । दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥ गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा । दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥८॥ - श्री वल्लभाचार्य Submitted on: Mon Nov 05 2012 17:22:48 GMT-0800 (PST) Category: Non-original work with Acknowledgements Language: Sanskrit Copyright: A Billion Stories (http://www.abillionstories.com) Submit your own work at http://www.abillionstories.com Read submissions at http://abilionstories.wordpress.com Submit a poem, quote, proverb, story, mantra, folklore in your own language at http://www.abillionstories.com/submit |
Srimad-Bhagavad-Gita Chapter-2 -Sekhar Thu Mar 29 2012 03:06:52 GMT-0700 (PDT)
|| द्वितीयोध्यायः || सञ्जय उवाच | तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् || विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||१|| श्री भगवानुवाच | कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् || अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२|| क्लैब्यं मास्म गमः पार्थ नैतत्वय्युपपद्यते || क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||३|| अर्जुन उवाच | कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन || इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||४|| गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके || हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ||५|| न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः || यानेव हत्वा न जिजीविषामस्तेवस्थिताः प्रमुखे धार्तराष्ट्राः ||६|| कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः || यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||७|| न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् || अवाप्य भूमावसपत्नमृध्दं राज्यं सुराणामपि चाधिपत्यम् ||८|| सञ्जय उवाच | एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः || न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||९|| तमुवाच हृषीकेशः प्रहसन्निव भारत || सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||१०|| श्री भगवानुवाच | अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे || गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||११|| न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः || न चैव न भविष्यामः सर्वे वयमतः परम् ||१२|| देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा || तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||१३|| मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः || अगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||१४|| यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ || समुदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||१५|| नासतो विद्यते भावो नाभावो विद्यते सतः || उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ||१६|| अविनाशि तु तद्विध्दि येन सर्वमिदं ततम् || विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||१७|| अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः || अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||१८|| य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् || उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||१९|| न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः || अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ||२०|| वेदाविनाशिनं नित्यं य एनमजमव्ययम् || कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२१|| वासांसि जीर्णानि यथा विहाय नवानि गृह्नाति नरोपराणि || तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही |२२|| नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः || न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ||२३|| अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च || नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२४|| अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते || तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||२५|| अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् || तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ||२६|| जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च | तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२७|| अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत || अव्यक्तनिधनान्येव तत्र का परिदेवना ||२८|| आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः || आश्चर्यवच्चैनमन्यः श्र्णोति श्रुत्वाप्येनं वेद न चैव कश्चित् ||२९|| देही नित्यमवध्योऽयं देहे सर्वस्य भारत || तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||३०|| स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि || धर्म्याद्धि युध्दाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||३१|| यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् | सुखिनः क्षत्रियाः पार्थ लभन्ते युध्दमीदृशम् ||३२|| अथ चेत्तवमिमं धर्म्यं संग्रामं न करिष्यसि || ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||३३|| अकीर्तिञ्चापि भूतानि कथयिष्यन्ति तेव्ययाम् || संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ||३४|| भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः || येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||३५|| अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः || निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||३६|| हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् || तस्मादुत्तिष्ठ कौन्तेय युध्दाय कृतनिश्चयः ||३७|| सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ || ततो युध्दाय युज्यस्व नैवं पापमवाप्स्यसि ||३८|| एषा तेभिहिता सांख्ये बुध्दिर्योगे त्विमां श्रुणु || बुध्दया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||३९|| नेहाभित्रुमनाशोस्ति प्रत्यवायो न विद्यते || स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||४०|| व्यवसायात्मिका बुध्दिरेकेह कुरुनन्दन || बहुशाखा ह्यनन्ताश्च बुध्दयोव्यवसायिनाम् ||४१|| यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः || वेदवादरताः पार्थ नान्यदस्तीतिवादिनः ||४२|| कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् || त्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||४३|| भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् || व्यवसायात्मिका बुध्दिः समाधौ न विधीयते ||४४|| त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन || निर्द्वन्दो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ||४५|| यावानर्थ उदपाने सर्वतः संप्लुतोदके || तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||४६|| कर्मण्येवाधिकारस्ते मा फलेषु कदाचन || मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्व कर्मणि ||४७|| योगस्थः कुरु कर्माणि सङ्ग त्यक्त्वा धनञ्जय || सिध्द्यसिध्द्योः समो भूत्वा समत्वं योग उच्यते ||४८|| दूरेण ह्यवरं कर्म बुध्दियोगाध्दनञ्जय || बुध्दौ शरणमन्विच्छ कृपणाः फलहेतवः ||४९|| बुध्दियुक्तो जहातीह उभे सुकृतदुष्कृते || तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ||५०|| कर्मजं बुध्दियुक्ता हि फलं मनीषिणः || जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||५१|| यदा ते मोहकलिलं बुध्दिर्व्यतितरिष्यति || तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||५२|| श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला || समाधावचला बुध्दिस्तदा योगमवाप्स्यसि ||५३|| अर्जुन उवाच | स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव || स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ||५४|| श्रीभगवानुवाच | प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् || आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ||५५|| दुःखेष्वनुद्विग्न मनाः सुखेषु विगतस्पृहः || वीतरागभयत्रोधः स्थितधीर्मुनिरुच्यते ||५६|| यः सर्वत्रानभिस्नेहस्तत्त्प्राप्य शुभाशुभम् || नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||५७|| यदा संहरते चायं कूर्मोङ्गानीव सर्वशः || इंद्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||५८|| विषया विनिवर्तन्ते निराहारस्य देहिनः || रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते ||५९|| यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः || इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||६०|| तानि सर्वाणि संयम्य युक्त आसीत मत्परः || वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||६१|| ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते || साङ्गात् संजायते कामः कामात् त्रोधोभिजायते ||६२|| त्रोधाद्दवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः || स्मृतिभ्रंशाद्बुध्दिनाशो बुध्दिनशात्प्रणश्यति ||६३|| रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् || आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||६४|| प्रसादे सर्वदुःखानां हानिरस्योपजायते | प्रसन्नचेतसो ह्याशु बुध्दिः पर्यवतिष्ठते ||६५|| नास्ति बुध्दिरयुक्तस्य न चायुक्थ्स्य भावना || न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||६६|| इन्द्रियाणां हि चरतां यन्मनोनुविधीयते || तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||६७|| तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः || इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||६८|| या निशा सर्वभूतानां तस्यां जागर्ति संयमी || यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||६९|| आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशान्ति यद्वत् || तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ||७०|| विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः || निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||७१|| एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति || स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ||७२|| इति सांख्ययोगो नाम द्वितीयोध्यायः ||२|| Submitted by: Sekhar Submitted on: Fri Dec 09 2011 20:48:09 GMT-0800 (PST) Category: Ancient Wisdom Language: Sanskrit Copyright: Copy Free Submit your own work at http://www.abillionstories.com Read submissions at http://abilionstories.wordpress.com Submit a poem, quote, proverb, story, mantra, folklore in your own language at http://www.abillionstories.com/submit |
आचार्याणां शतं पिता -Sahana Harekrishna
||सुभाषितानि|| उपाध्यायान् दशाचार्यः, आचार्याणां शतं पिता| सहस्रं तु पित्रन् माता, गौरवेणातिरिच्यते|| Submitted by: Sahana Harekrishna Submitted on: Fri Dec 23 2011 08:07:07 GMT-0800 (PST) Category: Ancient Wisdom Language: Sanskrit Copyright: Copy Free Submit your own work at http://www.abillionstories.com Read submissions at http://abilionstories.wordpress.com Submit a poem, quote, proverb, story, mantra, folklore in your own language at http://www.abillionstories.com/submit |
बालानां रोधनं बलं -Sahana Harekrishna
||सुभाषितानि|| दुर्बलस्य बलं राजा, बालानां रोधनं बलं| बलं मूर्खस्य माणिक्यं, घोराणां अमृतं बलं|| Submitted by: Sahana Harekrishna Submitted on: Fri Dec 23 2011 08:02:11 GMT-0800 (PST) Category: Ancient Wisdom Language: Sanskrit Copyright: Copy Free Submit your own work at http://www.abillionstories.com Read submissions at http://abilionstories.wordpress.com Submit a poem, quote, proverb, story, mantra, folklore in your own language at http://www.abillionstories.com/submit |
Srimad-Bhagavad-Gita Chapter-1 -Sekhar
श्रीमद - भगवद - गीता || प्रथमोध्यायः||धृतराष्ट्र उवाच | धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः || मामकाः पाण्डवाश्चैव किमकुर्वत संजय ||१|| संजय उवाच | दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा || आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ||२|| पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् || व्यूढ़ां द्रुपदपुत्रेण तव शिष्येण धीमता ||३|| अत्र शूरा महेष्वासा भीमार्जुनसमा युधि || युयुधानो विराटश्च द्रुपदश्च महारथः ||४|| धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् || पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः || ५|| युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् || सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||६|| अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम || नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ||७|| भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः || अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ||८|| अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः || नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||९|| अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् || पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१०|| अयनेषु च सर्वेषु यथाभागमवस्थिताः || भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||११|| तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः || सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१२|| ततः शङ्खाश्च भेर्यश्च पाणवानकगोमुखाः || सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१३| ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ || माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१४|| पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः || पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१५|| अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः || नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१६|| काश्यश्च परमेष्वासः शिखण्डी च महारथः || धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१७|| द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते || सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक् पृथक् ||१८|| स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् || नभश्च पृथिवीञ्चैव तुमुलोभ्यनुनादयन् ||१९|| अथ व्यवस्थितान् द्रष्ट्वा धार्तराष्ट्रान् कपिध्वजः || प्रवृते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः || हृषीकेशं तदा वाक्यमिदमाह महीपते ||२०|| अर्जुन उवाच | सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत ||२१|| यावदेतान्निरीक्षेऽहं योध्दुकामानवस्थितान् || कौर्मया सह योध्दव्यमस्मिन्रणसमुद्यमे ||२२|| योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः || धार्तराष्ट्रस्य दुर्बुध्देर्युध्दे प्रियचिकीर्षवः ||२३|| संजय उवाच | एवमुक्तो हृषीकेशो गुडाकेशेन भारत || सेनयोरुभयोर्मध्ये स्तापयित्वा रथोत्तमम् ||२४|| भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम || उवाच पार्थ पश्यैतान्समवेतान् कुरूनिति ||२५|| तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् || आचार्यान् मातुलान् भ्रात्र्र्न पुत्रान् पौत्रान् सखींस्तथा || श्वशुरान् सुहृदश्चैव सेनयोरुभयोरापि ||२६|| तान् समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् || कृपया परयाविष्टो विषीदन्निदमब्रवीत् ||२७|| अर्जुन उवाच | दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् || सीदन्ति मम गात्राणि मुखं च परिशुष्यति ||२८|| वेपथुश्च शरीरे मे रोमहर्षश्च जायते || गाण्डीवं स्त्रंसते हस्तात्वक् चैव परिदह्यते ||२९|| न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः || निमित्तानि च पश्यामि विपरीतानि केशव ||३०|| न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे || न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च ||३१|| किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा || येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च ||३२|| त इमेऽवस्थिता युध्दे प्राणांस्त्यक्त्वा धनानि च || आचार्याः पितरः पुत्रास्तथैव च पितामहाः ||३३|| मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ||३४|| एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन || अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||३५|| निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन || पापमेवाश्रयेदस्मान्हत्वैतानात तायिनः ||३६|| तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् || स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||३७|| यद्यप्येते न पश्यन्ति लोभोपहतचेतसः || कुलक्षयकुतं दोषं मित्रद्रोहे च पातकम् ||३८|| कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् || कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||३९|| कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः || धर्मे नष्टे कुलं कुत्स्नमधर्मोऽभिभवत्युत ||४०|| अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः || स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||४१|| सङ्करो नरकायैव कुलघ्नानां कुलस्य च || पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||४२|| दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः || उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||४३|| उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन || नरके नियतं वासो भवतीत्यनुशुश्रुम ||४४|| अहो बत महत्पापं कर्तुं व्यवसिता वयम् || यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः||४५|| यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः || धार्तराष्ट्रा राणे हन्युस्तन्मे क्षेमतरं भवेत् ||४६|| सञ्जय उवाच | एवामुक्तवाऽर्जुनः संख्ये रथोपस्थ उपाविशत् || विसृज्य सशरं चापं शोकसंविग्नमानसः ||४७|| इति अर्जुन विषादयोगो नाम प्रथमोध्यायः ||१|| Submitted by: Sekhar Submitted on: Thu Dec 08 2011 01:40:27 GMT-0800 (PST) Category: Ancient Wisdom Language: Sanskrit Copyright: Copy Free Submit your own work at http://www.abillionstories.com Read submissions at http://abilionstories.wordpress.com Submit a poem, quote, proverb, story, mantra, folklore in your own language at http://www.abillionstories.com/submit |
1-7 of 7